कुबेरः

सुधाव्याख्या

कुबेर इत्यादि । कुत्सितं बेरं शरीरमस्य । कुष्ठित्वात् कुत्सायां क्विति शब्दोऽयं शरीरं बेरमुच्यते । ‘कुबेरः कुशरीरः त्वान्नाम्ना तेनैव सोऽङ्कितः’ इति वायुपुराणम् । यद्वा-कुम्बति धनम् । 'कुबि आच्छादने’ (भ्वा० प० से०) । ‘कुम्बेर्नलोपश्च’ (उ० १.५९) इत्येरक् ।।