तामरसम्

सुधाव्याख्या

'तामरं घृतमर्णश्च' इति रुद्रः । तत्र सस्ति । ‘षस स्वप्ने' (अ० प० से०) । अन्येभ्योऽपि-' (वा० ३.२.१०१) इति ड: । यद्वा तम्यते । 'तमु काङ्क्षायाम्' (दि० प० से०) । घञ् (३.३.१९) । ‘नोदात्तोपदेशस्य-' (७.३.३४) इति निषेधस्यानित्यत्वान्न वृद्धिनिषेधः । रस्यत । ‘रस आस्वादने । चुरादावदन्त: । 'एरच् (३.३.५६) । तामं च तद्रसं च । 'तामरसं पद्मे ताम्रकाञ्चनयोरपि' ॥


प्रक्रिया

धातुः - षसँ स्वप्ने


सस् - धात्वादेः षः सः 6.1.64, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तामर + ङि + सस् + ड – अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम्, उपपदमतिङ् 2.2.19
तामर + सस् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
तामर + सस् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
तामर + स् + अ टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
तामरस + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तामरस + अम् - अतोऽम् 7.1.24
तामरसम् - अमि पूर्वः 6.1.107