कमलम्

सुधाव्याख्या

कं जलमलति । ‘अलं भूषणादौ’ (भ्वा० प० से०) । मूलविभुजादित्वात् (वा० ३.२.५१) कः । यद्वा काम्यते । ‘कमु कान्तौ (भ्वा० आ० से०) । ‘वृषादिभ्यः' (उ० १.१०६) इति कलच् । ‘कमलं क्लोम्नि भेषजे । पङ्कजे सलिले ताम्रे कमलस्तु मृगान्तरे । कमला श्रीवरनार्यो:’ इति हैमः ।