यमराट्

सुधाव्याख्या

यमेन संयमेन राजते । क्विप् (३.२.६१) जान्त: ।।


प्रक्रिया

धातुः - राजृँ दीप्तौ


राज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यम + टा + राज् + क्विप् - उपपदमतिङ् 2.2.19, सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ 3.2.61
यमराज् + क्विप् - सुपो धातुप्रातिपदिकयोः 2.4.71
यमराज् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यमराज् - वेरपृक्तस्य 6.1.67
यमराज् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
यमराज् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यमराज् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
यमराष् - व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः 8.2.36
यमराड् - झलां जशोऽन्ते 8.2.39
यमराट् - वाऽवसाने 8.4.56