आशुशुक्षणिः

सुधाव्याख्या

(आशोष्टुमिच्छति) । आपूर्वा च्छुष्यतेः (दि० प० अ०) । सन्नन्तात् 'अङि शुषेः सनश्छन्दसि (उ० २.१०६) इत्यनिः । छान्दसानामपि क्वचिद्भाषायां प्रयोगः । ‘अध्वर्यु-क्रतुः-' (२.४.४) इति ज्ञापकात् । आशु शीघ्रं आशुं व्रीहिं वा शु क्षणोति । क्षणु हिंसायाम्' (त० उ० से०) । इन् (उ० ४११८) । शु इति पूजार्थमव्ययम् ।


प्रक्रिया

धातुः - शुषँ शोषणे


शुष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आङ् + शुष् + सन् - धातोः कर्मणः समानकर्तृकादिच्छायां वा 3.1.7
आ + शुष् + स - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आ + शुष् + शुष् + स - सन्यङोः 6.1.9
आ + शु + शुष् + स - हलादिः शेषः 7.4.60
आशु + शुक् + स - षढोः कः सि 8.2.41
आशु + शुक् + ष - आदेशप्रत्यययोः 8.3.59
आशुशुक्ष + अनि - आङि शुषेः सनश्छन्दसि (२.१०६) । उणादिसूत्रम् ।
आशुशक्ष् अनि - अतो लोपः 6.4.48
आशुशुक्षणि - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
आशुशुक्षणि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आशुशुक्षणि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आशुशुक्षणि + रु - ससजुषो रुः 8.2.66
आशुशुक्षणि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
आशुशुक्षणिः - खरवसानयोर्विसर्जनीयः 8.3.15