मघवा

सुधाव्याख्या

मह्यते पूज्यते । ‘मह पूजायाम्' (भ्वा० प० से०, चु० उ० से०) । 'श्वन्नुक्षन्-' (उ० १.१५९) इत्यादिना 'मघवन्’ इति निपातितम् ॥ ‘मघवा बहुलम्' (६.४.१२८) इति त्रादेशपक्षे तु ‘मघवान्’ इत्यपि बोध्यम् । यत्तु 'त्रादेशे दीर्घभावात् मघवन्’ इति स्वामिनोक्तम् । तन्न । ‘सर्वनामस्थाने चासम्बुद्धौ’ (६.४.८) इति दीर्घसम्भवात् । न च संयोगान्तलोपस्य (८.२.२३) असिद्धत्वम् । ‘मघवा बहुलम्' (६.४.१२८) इति बहुलग्रहणेन तद्बाधनात् । अत एव मतुपा (५.२.९३) त्रन्तादेशप्रत्याख्यानपरं वार्तिकं तद्भाष्यं च (६.४.१२८) सङ्गच्छते । ‘हविर्जक्षिति नि:शङ्को मखेषु मघवानसौ' इति भट्टिः । एतेन मघवा मघवन् मघवान् इति त्रैरूप्यं वदन्मुकुटोऽपि प्रत्युक्तः । भाष्यवार्तिकैकमत्यानुरोधन सूत्रकारमतेऽपि ‘मघवान्’ इत्यस्यैवाभ्युपगमात् । मतभेदे हि प्रत्याख्यानासम्भवात् । भवतु वा मतभेदः, तथापि 'होतृ लृकारः इत्यत्र सूत्ररीत्या यणादेशः प्राप्तो वार्तिकरीत्या दीर्घेण बाध्यते यथा, एवं सूत्ररीत्या 'मघवन्' इति प्रयोगः प्राप्तो भाष्यवार्तिककृतप्रत्याख्यानरीत्या 'मघवान्’ इति प्रयोगेण बाध्यते ।


प्रक्रिया