मरुत्वान्

सुधाव्याख्या

मरुतः सन्त्यस्य । मतुप् (५.२.९४) । ‘झयः’ (८.२.१०) इति वत्वम् । ’तसौ मत्वर्थे’ (१.४.१९) इति भत्वाज्जश्त्वाभावः ।


प्रक्रिया

मरुत् + जस् + मतुप् - तदस्यास्त्यस्मिन्निति मतुप्‌ 5.2.94
मरुत् + मतुप् - सुपो धातुप्रातिपदिकयोः 2.4.71
मरुत् + मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मरुत् + वत् - झयः 8.2.10
मरुत्वत् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मरुत् + व नुम् त् + सु - उगिदचां सर्वनामस्थानेऽधातोः 7.1.70
मरुत् + व न् त् + सु - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मरुत् + व न् त् स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मरुत्वान् त् स् - अत्वसन्तस्य चाधातोः 6.4.14
मरुत्वा न् त् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
मरुत्वान् - संयोगान्तस्य लोपः 8.2.23