शची

सुधाव्याख्या

शचते । ‘शच व्यक्तायां वाचि (भ्वा० आ० से०) । इन् (उ० ४.११८) ॥ कृदिकाराद्-' (ग० सू० ४.१.४५) इति डीष् । (शचीन्द्राण्यां शतावर्यां तथा स्त्रीकरणान्तरे') ‘अथ शची स्यादिन्द्राणी शतावरी । चारुधारा महेन्द्राणी शक्राणी जयवादिनी इति रभसः । शक्रमणति आनयति जीवयतीति वा शक्राणी । सर्वेन्द्रियेषु सचते । ‘षच समवाये (भ्वा० आ० से०) । इन (उ० ४.११८) सची दन्त्यादिरपि ।।