इन्द्राणी

सुधाव्याख्या

इन्द्रस्य स्त्री । 'इन्द्रवरुण'= (४.१.४९) इति ङीषानुकौ । इन्द्राणी शच्यां निर्गुण्ड्यां स्त्रीकरणेऽपि’)। यत्तु अनुकि कर्तव्ये दीर्घकारमानुकं शास्ति, तज्ज्ञापयति यतो विहितस्ततोऽन्यत्रापि भवति । तेन किर्याणी गिर्याणी इत्यादि सिद्धं भवति इति धातुपारायणम् । अत एव ‘शक्राणी' इति मुकुटश्च । तन्न । अनुकि कृते अतो गुणे' (६.१.९७) इति पररूपप्रसङ्गात् । नन्वकारोच्चारसामर्थ्यात् दीर्घो भविष्यति । अन्यथा हि नुकमेव कुर्यात् इति चेत् न । ‘अल्लोपोऽनः (६.४.१३४) इत्यस्य बाधेन चरितार्थत्वात् `पत्युर्नः’ (४.१.३३) इति वदादेशे कर्तव्ये आगमलिङ्गककारोच्चारणसामर्थ्यादेव अल्लोपो न भविष्यति इति चेत् । न । शर्वशब्दे ककारस्य चारितार्थ्यात् । न हि तत्र लोपोऽस्ति । 'न संयोगात्-’ (६.४.१३७) इति निषेधात् । तस्मात् ककाराकारयोः सामर्थविरहे पररूपबाधनार्थं दीर्घोच्चारणमावश्यकम् । प्रयोगनिर्वाहस्तूक्त एव । त्रीणि इन्द्रपत्न्याः ।