मृत्युंजयः

सुधाव्याख्या

मृत्युं जयति । ‘संज्ञायां भृतॄवृजि’ (३.२.४६) इति खच् । मुम् (६.३.६७) ।


प्रक्रिया

धातुः - जि जये


मृत्यु + अम् जि + खच् - उपपदमतिङ् 2.2.19, संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46
मृत्यु+जि+खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
मृत्यु+जि+अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मृत्यु+जे+अ - सार्वधातुकार्धधातुकयोः 7.3.84
मृत्यु+जय्+अ - एचोऽयवायावः 6.1.78
मृत्यु मुम्+जय - अरुर्द्विषदजन्तस्य मुम् 6.3.67
मृत्यु म्+जय - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मृत्युञ्जय - अनुस्वारस्य ययि परसवर्णः 8.4.58
मृत्युञ्जय + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मृत्युञ्जय + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मृत्युञ्जय + रु - ससजुषो रुः 8.2.66
मृत्युञ्जय + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मृत्युञ्जयः - खरवसानयोर्विसर्जनीयः 8.3.15