गिरिशः

सुधाव्याख्या

गिरिराश्रयत्वेनास्यास्ति । लोमादित्वात् (५.२.१००) श: । स्वामी तु ‘गिरिं श्यति उपभोगेन तनूकरोति, गिरौ शेते वा । गिरौ डश्छन्दसि (वा० ३.२.१५) । लोके तु ‘आशुशुक्षणिवत्' इत्याह ॥