वनमाली

सुधाव्याख्या

'आपादपद्म या माला वनमालेति सा मता' इति कलिङ्गः । सास्यास्ति । व्रीह्यादित्वात् (५.२.११६) इनिः । वनं मलितुं शीलमस्य इति वा । ‘मल धारणे’ (भ्वा० आ० से०) ‘सुपि’ (३.२.७८) इति णिनिः । ('वनमाली तु गोविन्दे वाराह्यां वनमालिनी) ॥