देवकीनन्दनः

सुधाव्याख्या

देवक्या नन्दनः । देवकशब्दस्य तदपत्ये लक्षणया वृत्तौ 'पुंयोगात्- (४.१.४८) इति डीष् । नहि तत्र दाम्पत्यलक्षण एव पुंयोगः, किं तु जन्यत्वाद्यपि’ इति हरदत्तादयः । अत एव ‘प्राक् केकयीतो भरतस्ततोऽभूत्' इति भट्टिः । एवं रेवतीरमणोऽपि । अणि तु दैवकी । 'दैवकी देवकी च' इति द्विरूपकोषः । देवकानाचष्टे इति णिजन्तात् ॥ ‘अच इः' (उ० ४.१३९)। 'ततो डीष् (वा० ४.१.४५) इति, देवकस्यापत्यं वा । 'अत इञ्' (४.१.९५) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः इतो मनुष्यजातेः(४.१.६५) इति डीष् इति च मुकुटः ॥