मन्मथः

सुधाव्याख्या

मननं मत् । चेतना । सम्पदादि क्विप् (वा० ३.३.१०८) । ‘गमादीनां क्वौ’ (वा० ६.४.४०) इति नलोपः । ‘हस्वस्य’ (६.१.७१) इति तुक् । मथतीति मथ: । ‘मथे विलोडने (भ्वा० प० से०) । अच् (३.१.१३४) । मतो मथः = मन्मथः । ‘मन्मथकामचिन्तायां कपित्थे कुसुमाययधे । यतु अनुदात्तोपदेश - (६.४.३७) इत्यनुनासिकलोपः इति स्वामिमुकुटावूचतुः । तन्न । क्विपो झलादित्वाभावात् ।


प्रक्रिया

धातुः - मनँ ज्ञाने , मथेँ विलोडने


मन+क्विप् - संपदादिभ्यः क्विप् (३.३.१०८) । वार्तिकम् ।
मन् + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मन् - वेरपृक्तस्य 6.1.67
- गमादीनामिति वक्तव्यम् (६.४.४०) । वार्तिकम् ।
म + तुक् - ह्रस्वस्य पिति कृति तुक् 6.1.71
मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मथ् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मथ+अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
मथ्+अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मत् ङस् मथ सु - षष्ठी 2.2.8
मत् मथ - सुपो धातुप्रातिपदिकयोः 2.4.71
मन्+मथ - यरोऽनुनासिकेऽनुनासिको वा 8.4.45
मन्मथ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मन्मथ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मन्मथ + रु - ससजुषो रुः 8.2.66
मन्मथ + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मन्मथः - खरवसानयोर्विसर्जनीयः 8.3.15