कन्दर्पः

सुधाव्याख्या

'कम्' इत्यव्यये कुत्सायाम् । कुत्सितो दर्पोऽस्य कंदर्पः । यद्वा कं सुखम् तत्र तेन वा दृप्यति । 'दृप हर्षमोहनयोः (दि० प० अ०) । पचाद्यच् (३.१.१३४) ।