असुराः

सुधाव्याख्या

असुरा इति । अस्यन्ति क्षिपन्ति देवान् असुराः । ‘असु क्षेपणे' (दि० प० से०) । ‘असेरुरन्’ (उ० १.४२) इत्युरन् । सुरविरुद्धत्वाद्वा नञ् (२.२.६) इति तत्परुषः । प्रज्ञाद्यणि (५.४.३८) 'आसुराश्च' । असुषु रमन्ते वा । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः । (‘असुरः सूर्यदैत्ययोः । असुरा रजनीवास्यो:') ॥