पूर्वदेवाः

सुधाव्याख्या

पूर्वे च ते देवाश्च । ‘पूर्वापर प्रथम-' (२.१.५८) इत्यादिना समासः । यद्वा पूर्वं देवाः । अन्यायाद्धि देवत्वाद्भ्रष्टाः । ‘सुप्सुपा' (२.१.४) इति समासः । पूर्वे देवा येभ्यो वा । ‘अनेकमन्यपदार्थे' (२.२.२४) इति बहुव्रीहिः ॥