वल्लकी

सुधाव्याख्या

वल्लते । ‘वल वल्ल संवरणे’ (भ्वा० आ० से०) । क्वुन् (उ० २.३२) । गौरादित्वात् (४.१.४२) डीष् ॥


प्रक्रिया

धातुः - वल्लँ संवरणे सञ्चरणे च


वल्ल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वल्ल् + क्वुन् - भियः क्रुकन् (२.३२) । उणादिसूत्रम् ।
वल्ल् + वु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वल्ल् + अक - युवोरनाकौ 7.1.1
वल्लक + ङीष् - जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु 4.1.42
वल्लक + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वल्लक् + ई - यस्येति च 6.4.148
वल्लकी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वल्लकी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वल्लकी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68