विपञ्ची

सुधाव्याख्या

विपञ्चयति विस्तारयति शब्दम् । ‘पचि विस्तारे (चु० प० से०) । ण्यन्तादच् (३.११३४) । गौरादिः (४. १.४१) । विपञ्ची केलिवीणयो ।


प्रक्रिया

धातुः - पचिँ विस्तारवचने


पच् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पन्च् - इदितो नुम् धातोः 7.1.58
पंच् - नश्चापदान्तस्य झलि 8.3.24
पञ्च् - अनुस्वारस्य ययि परसवर्णः 8.4.58
वि + पञ्च् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
वि + पञ्च् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
वि + पञ्च् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
वि + पञ्च् + अच् - णेरनिटि 6.4.51
वि + पञ्च् + अ - हलन्त्यम् 1.3.3
वि + पञ्च + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
वि + पञ्च + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वि + पञ्च् + ई - यस्येति च 6.4.148
विपञ्ची + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
विपञ्ची + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
विपञ्ची - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68