मुखवासनः

सुधाव्याख्या

मुखं वासयति । नन्द्यादिल्युः (३.१. १३४)


प्रक्रिया

धातुः - वसँ स्नेहच्छेदापहरणेषु


वस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वस् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25,
वस् + इ - हलन्त्यम् 1.3.3,चुटू 1.3.7, तस्य लोपः 1.3.9
वास् + इ - अत उपधायाः 7.2.116
मुख + अम् + वास् + इ + ल्यु - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134, उपपदमतिङ् 2.2.19
मुख + वास् + इ + ल्यु - सुपो धातुप्रातिपदिकयोः 2.4.71
मुख + वास् + ल्यु - णेरनिटि 6.4.51
मुखवास् + यु - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मुखवास् + अन - युवोरनाकौ 7.1.1
मुखवासन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
मुखवासन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुखवासन + रु - ससजुषो रुः 8.2.66
मुखवासन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुखवासनः - खरवसानयोर्विसर्जनीयः 8.3.15