आमोदः

सुधाव्याख्या

आमोद इति । स परिमलोऽतिनिर्हारी अत्यन्तमनोहरश्चेत् । आसमन्तान्मोदयति, इत्यामोदः । 'मुद हर्षे' (भ्वा० आ० से०) ण्यन्तः । अच् (३.१.१३४) । ‘आमोदो गन्धहर्षयोः’ ॥