परिमलः

सुधाव्याख्या

विमर्दोत्थ इति । सुरतादिविमर्दोत्थे माल्यादिगन्धे, घर्षणसमुद्भवे चन्दनादिगन्धे, च जनानां मनोहरे, परिमलः । 'मल धारणे (भ्वा० आ० से०) । मल्यते । कर्मणि घञ् (३.३.१९) । संज्ञापूर्वकत्वाद्वृद्ध्यभावः । ‘खनो घ च’ (३.३१२५) इति घो वा । घित्करणात् ‘अन्येभ्योऽपि’ इत्यभ्युपगमात् । यद्वा मलते धारयति जनमनांसि पचाद्यच् (३.३.१३४) । 'स्यात्परिमलो विमर्दातिमनोहरगन्धयोश्चापि । सुरतोपमर्दविक सच्छरीरसङ्गादिसौरभे पुंसि ।