ऋतुः

सुधाव्याख्या

इयर्ति, ऋच्छति वा । अर्तेश्च-' (उ० १.७२) इति तुः । चात् कित्वम् । (‘ऋतुः स्त्रीकुसुमे मासि वसन्तादीषुधारयोः') । मार्गादीनां युगैर्हेमन्तादीनृतून् वक्ष्यति । तदेकदेशमयनपरिच्छेदार्थमनुवदति द्वौ द्वाविति ।