अयनम्

सुधाव्याख्या

तैर्ऋतुभिः । अयतेऽर्कोऽनेन । ल्युट् (३.३.११७) । यत्तु-'अयतेऽर्कोऽनेन इति विगृह्य ‘इण् गतौ' (अ० प० अ०) इति धातोरुपन्यसनं मुकुटेन कृतम् । तदसंगतम् । इति स्पष्टमेव । ‘अयनं’ पथि भानोरप्युदग्दक्षिणतो गतौ ।