सुधाव्याख्या

- वाति । वानं वा । डः (वा० ३.२.१०१) । क्वचित् 'वत् इति पाठः । स तु न युक्तः । वति (५.१.११५) प्रत्ययेन गतार्थत्वात् । न च वतिरेवात्र पठितः । सादृश्यपर्याये प्रत्ययपाठस्यायुक्तत्वात् । अपत्यसमहादिपर्यायेष्वणवुञादीनामपाठात्' । 'वं प्रचेतसि जानीयादिवार्थे तु तदव्ययम्' इति मेदिन्यादिसमयतेश्च'' ।


प्रक्रिया

धातुः -


वा गतिगन्धनयोः
वा + ड – अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम् ।
वा + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
व् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
- स्वरादिनिपातमव्ययम् 1.1.37
व + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
- अव्ययादाप्सुपः 2.4.82