यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः । सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥ १ ॥
समाहृत्यान्यतन्त्राणि संक्षिप्तैः प्रतिसंस्कृतैः । सम्पूर्णमुच्यते वगैर्नामलिङ्गानुशासनम् ॥ २ ॥
प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् । स्त्रीपुंनपुंसकं ज्ञेयं तद्विशेषविधेः क्वचित् ॥ ३ ॥
भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः । कृतोऽत्र भिन्नलिङ्गानामनुक्तानां क्रमादृते ॥ ४ ॥
त्रिलिङ्ग्यां त्रिष्विति पदं मिथुने तु द्वयोरिति । निषिद्धलिङ्गं शेषार्थं त्वन्ताथादि न पूर्वभाक् ॥ ५ ॥