श्रौषट्

सुधाव्याख्या

- श्रूयते अनेन वा । ‘श्रु श्रवणे' (भ्वा० प० से०) । बाहुलकाड्डौषट् ॥


प्रक्रिया

धातुः -


श्रु श्रवणे
श्रु + डौषट् – बाहुलकात् ।
श्रु + औषट् - चुटू 1.3.7, तस्य लोपः 1.3.9
श्र् + औषट् - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
श्रौषट् - स्वरादिनिपातमव्ययम् 1.1.37
श्रौषट् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
श्रौषट् - अव्ययादाप्सुपः 2.4.82