अमरकोशः
भोः
सुधाव्याख्या
- भाति । ‘भा दीप्तौ' (अ० प० अ०) । बाहुलकाड्डोस् ॥
प्रक्रिया
धातुः -
भा दीप्तौ
भा + डोस्
– बाहुलकात् ।
भा + ओस्
-
चुटू 1.3.7
,
तस्य लोपः 1.3.9
भ् + ओस्
-
टेः 6.4.143
, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
भोस्
-
स्वरादिनिपातमव्ययम् 1.1.37
भोस् + सु
-
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2
भोस्
-
अव्ययादाप्सुपः 2.4.82
भो + रु
-
ससजुषो रुः 8.2.66
भो + र्
-
उपदेशेऽजनुनासिक इत् 1.3.2
,
तस्य लोपः 1.3.9
भो
-
खरवसानयोर्विसर्जनीयः 8.3.15
Find words details involved in this Prakriya