किम्

सुधाव्याख्या

- कानम् । ‘कै शब्दे' (भ्वा० प० अ०) । ‘कायतेर्डिमि:' (उ० ४.२५८) ॥


प्रक्रिया

धातुः -


कै शब्दे
कै + डिमि – कायतेर्डिमि (४.२५८) । उणादिसूत्रत्रम् ।
कै + इम् - उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
क् + इम् - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
किम् - स्वरादिनिपातमव्ययम् 1.1.37
किम् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
किम् - अव्ययादाप्सुपः 2.4.82