सु

सुधाव्याख्या

- सवति । षु गतौ (प्रसवैश्वर्ययोः) (भ्वा० प० अ०) । डुः (वा० ३.२.१८०) । (‘सु पूजायां भृशार्थेऽनुमतिकृच्छ्रसमृद्धिषु' इति मेदिनी) ॥


प्रक्रिया

धातुः -


षुँ गतौ
सु - धात्वादेः षः सः 6.1.64
सु + डु – डुप्रकरणे मितद्र्वादिभ्य उपसंख्यानम् (3.2.180) । वार्तिकम् ।
सु + उ - चुटू 1.3.7, तस्य लोपः 1.3.9
स् + उ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
सु - स्वरादिनिपातमव्ययम् 1.1.37
सु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सु - अव्ययादाप्सुपः 2.4.82