हनँ हिंसागत्योः |
|
हन् |
- उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |
आ + हन् + डो |
– बाहुलकात् । |
आ + हन् + ओ |
- चुटू 1.3.7, तस्य लोपः 1.3.9 |
आ + ह् + ओ |
- टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः। |
आहो |
- स्वरादिनिपातमव्ययम् 1.1.37 |
आहो + सु |
- स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् 4.1.2 |
आहो |
- अव्ययादाप्सुपः 2.4.82 |