प्राध्वम्

सुधाव्याख्या

- प्राध्वनति । 'ध्वन शब्दे' (भ्वा० प० से०) । डम्प्रत्ययः । ‘प्राध्वं तु प्रणते चातिदूरे वर्त्मनि बन्थने' ॥


प्रक्रिया

धातुः -


ध्वनँ शब्दे
ध्वन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + आ + ध्वन् + डम् – बाहुलकात् ।
प्रा + ध्वन् + अम् - चुटू 1.3.7, तस्य लोपः 1.3.9
प्रा + ध्व् + अम् - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
प्राध्वम् - स्वरादिनिपातमव्ययम् 1.1.37
प्राध्वम् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्राध्वम् - अव्ययादाप्सुपः 2.4.82