अञ्जसा

सुधाव्याख्या

- अञ्जनम् । ‘अञ्जू व्यक्त्यादौ’ (रु० प० से०) । ‘कृत्यल्युटो (कृतो) बहुलम्' (वा० ३.३.११३) इति पचाद्यच् । (३.१.१३४) अञ्जं स्यति, सायति वा । ‘षोऽन्तकर्मणि । (दि० प० अ०) । ‘क्षै क्षये' (भ्वा० प० अ०) वा । पचाद्यच् (३.१.१३४) । क्विप् (३.२.७६) वा ॥