सुष्ठु

सुधाव्याख्या

- सुतिष्ठति । ‘अपदु:सुषु स्थ:' (उ० १.२५) इति कुः ॥


प्रक्रिया

धातुः -


ष्ठा गतिनिवृत्तौ
स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।
सु + स्था + कु – अपदुःसुषु स्थः (१.२५) । उणादिसूत्रम् ।
सु + स्था + उ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सु + स्थ् + उ - आतो लोप इटि च 6.4.64
सु ष् थ् + उ - सुषामादिषु च 8.3.98
सुष्ठु - ष्टुना ष्टुः 8.4.41
सुष्ठु - स्वरादिनिपातमव्ययम् 1.1.37
सुष्ठु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सुष्ठु - अव्ययादाप्सुपः 2.4.82