दुष्ठु

सुधाव्याख्या

- दुःस्थानम् । ‘अपदुःसुषु स्थः' (उ० १.२५) । इति कुः । सुषामादित्वात् (८.३.९८) षः ॥


प्रक्रिया

धातुः -


ष्ठा गतिनिवृत्तौ
स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तिकस्याप्यपायः ।
दुः + स्था + कु – अपदुःसुषु स्थः (१.२५) । उणादिसूत्रम् ।
दुः + स्था + उ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
दुः + स्थ् + उ - आतो लोप इटि च 6.4.64
दुष्ठु - सुषामादिषु च 8.3.98, ष्टुना ष्टुः 8.4.41
दुष्ठु - स्वरादिनिपातमव्ययम् 1.1.37
दुष्ठु + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
दुष्ठु - अव्ययादाप्सुपः 2.4.82