कामम्

सुधाव्याख्या

- काम्यते । कमेर्णिङन्तादम् । ‘अकामानुमतौ काममसूयोपगमेऽपि च' इति रुद्रः । ‘आकामानुमतौ कामम्' इति क्वचित्पाठः । तत्राङ् बोध्यः । ‘निकामानुमतौ कामम्' इत्यर्थः । ‘कामं कामाभ्यनुज्ञयोः' इति त्रिकाण्डशेषः ॥