परमम्

सुधाव्याख्या

- परं मिनीते, मिनोति, मीनाति वा । डम् । ‘ओमेवं परमं भवेत्' इत्यव्ययकाण्डे व्याडिः ॥


प्रक्रिया

धातुः -


डुमिञ् प्रक्षेपणे
मि - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
पर + मि + डम् – बाहुलकात् ।
पर + मि + अम् - चुटू 1.3.7, तस्य लोपः 1.3.9
पर + म् + अम् - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
परमम् - स्वरादिनिपातमव्ययम् 1.1.37
परमम् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
परमम् - अव्ययादाप्सुपः 2.4.82