अञ्जसा

सुधाव्याख्या

- अञ्जनम् । 'अञ्जू व्यक्त्यादौ (रु० प० से०) । ‘कृत्यल्युटो बहुलम्' (३.३.११३) इति भावे पचाद्यच् (३.१.१३४) । अञ्जं स्यति, सायति वा । ‘षोऽन्तकर्मणि' (दि० प० अ०) । ‘षै क्षये' (भ्वा० प० अ०) । पचाद्यच् (३.१.१३४) । क्विप् (३.२.७६) वा ॥