अभीक्ष्णम्

सुधाव्याख्या

- अभिक्ष्णवनम् । ‘क्ष्णु तेजने' (अ० प० से०) डम् । पृषोदरादित्वात् (६.३.१०९) अमेर्दीर्घः ॥


प्रक्रिया

धातुः -


क्ष्णु तेजने
अभि + क्ष्णु + डम् – बाहुलकात् ।
अभि + क्ष्णु + अम् - चुटू 1.3.7, तस्य लोपः 1.3.9
अभि + क्ष्ण् + अम् - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
अभीक्ष्णम् - पृषोदरादीनि यथोपदिष्टम् 6.3.109
अभीक्ष्णम् - स्वरादिनिपातमव्ययम् 1.1.37
अभीक्ष्णम् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अभीक्ष्णम् - अव्ययादाप्सुपः 2.4.82