स्थाने

सुधाव्याख्या

- स्थानस्य करणम् । स्थानशब्दात् ‘तत्करोति-' (वा० ३.१.२६) इति णिजन्तादेप्रत्ययः ॥ युक्ते उचितार्थे । ‘स्थाने तु कारणार्थे स्याद्युक्तसादृश्ययोरपि’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


स्थान + णिच् – तत्करोति तदाचष्टे (3.1.26) । वार्तिकम् ।
स्थाने - बाहुलकात् ।
स्थाने - स्वरादिनिपातमव्ययम् 1.1.37
स्थाने + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्थाने - अव्ययादाप्सुपः 2.4.82