साम्प्रतम्

सुधाव्याख्या

- सम्प्रतनम् । 'तनु विस्तारे' (त० उ० से०) । डम् । पृषोदरादित्वात् (६.३.१०९) समो दीर्घः ॥


प्रक्रिया

धातुः -


तनुँ विस्तारे
तन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सम् + प्र + तन् + डम् – बाहुलकात् ।
सम् + प्र + तन् + अम् - चुटू 1.3.7, तस्य लोपः 1.3.9
सम् + प्र + त् + अम् - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
साम्प्रतम् - पृषोदरादीनि यथोपदिष्टम् 6.3.109
साम्प्रतम् - स्वरादिनिपातमव्ययम् 1.1.37
साम्प्रतम् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
साम्प्रतम् - अव्ययादाप्सुपः 2.4.82