समुपजोषम्

सुधाव्याख्या

- समुपजोषणम् । ‘जुषी प्रीतिसेवनयोः' (तु० आ० से०) । अम्प्रत्ययः ॥ मुकुटस्तु–‘शम्’ ‘उपजोषं च–इति पठति । तत्र ‘शम् उपशमे' (दि० प० अ०) धातुर्णिजन्तः । विच् (३.२.७५) ।