असकृत्

सुधाव्याख्या

- न सकृत् ॥ समास्तुल्यार्थाः । अजयस्तु अभीक्ष्णशब्दमनव्ययमप्याह । ‘अभीक्ष्णं तु पौनःपुन्ये सर्वदार्थे च दृश्यते' इत्यनव्ययप्रकरणे पाठात् । ‘वारंवारं शश्वदर्थे वारंवारेण चेष्यते' इति त्रिकाण्डशेषः ।