शम्बाकृतम्

सुधाव्याख्या

शमस्यास्ति ‘कंशंभ्याम्’ (५.२.१३८) इति वा । शम्बशब्दो द्वितीयकर्षणे वर्तते । शम्बं कृतम् । ‘कृञो द्वितीय-’ (५.४.५८) इति डाच् । ‘सरित्सैरिभसम्बाकृतम्’ इति दन्त्यादौ वर्णदेशना । तत्र ‘षम्ब सम्बन्धे (चु० प० से०) । ण्यन्तः । सम्ब्यते । घञ् (३.३.१९) । अच् (३.३.५६) वा ॥