सत्यापनम्

सुधाव्याख्या

क्लीति । सत्यस्य करणम् । ‘सत्यापपाश-' (३.१.२५) इति णिजापुकौ । भावे ल्युट् (३.३.११४) । ‘सत्यापना सत्याकृतिः' इति स्त्रीकाण्डे वोपालितात् ‘ण्यासश्रन्थः-’ (३.३.११७) इति युजपि ॥


प्रक्रिया

धातुः -


सत्य + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
सत्य + इ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सत्य + इ + आपुक् - अर्थवेदसत्यानामापुक् (3.1.25) । वार्तिकम् ।
सत्य + आप् - णेरनिटि 6.4.51, हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सत्याप् + ल्युट् - ल्युट् च 3.3.115
सत्याप्+ यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सत्याप् + अन - युवोरनाकौ 7.1.1
सत्यापनम्
x000D