नैगमः

सुधाव्याख्या

निगमे भवः । ‘तत्र भवः’ (४.३.५३) इत्यण् । 'नैगमः स्यादुपनिषद्वणिजोः (नागरेऽपि च)' इति विश्वः (मेदिनी) । संज्ञापूर्वकत्वाद्वृद्ध्यभावे ‘निगमः’ अपि । ‘निगमो वाणिजे पुर्याम् (कटे वेदे वाणिक्पथे)' इति विश्वः (मेदिनी) ॥