स्तभः

सुधाव्याख्या

स्तेति । स्तभ्नोति । ‘स्तम्भु रोधने (सौत्रः) मूलविभुजादित्वात् (वा० ३.२.५) कः । पचाद्यचि (३.१.१३४) तु नलोपो न स्यात् । तुभ इति पाठे, तोभते । ‘तुफ हिंसायाम्' (भ्वा० आ० से०) । ‘शुभ' इति पाठे ‘शुभ हिंसायाम्' (भ्वा० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः ॥