उरुभ्रः

सुधाव्याख्या

उरु भ्रमति । ‘भ्रमु चलने’ (भ्वा० प० से०) । ‘अन्येभ्योऽपि-' (वा० ३.२.१०१) इति डः । पृषोदरादिः (१.३.१०९) । यद्वा उना शम्भुना रभ्यते । ‘रभ राभस्ये' (भ्वा० आ० अ०) । बाहुलकाद्रक् ॥


प्रक्रिया

धातुः -


भ्रमुँ चलने
भ्रम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उरु + भ्रम् + ड – वा ३.२.१०१
उरु + भ्रम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
उरु + भ्र् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
उरुभ्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उरुभ्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उरुभ्र + रु - ससजुषो रुः 8.2.66
उरुभ्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उरुभ्रः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D