अजा

सुधाव्याख्या

अजेति । अजति । ‘अज गतौ’ (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । ‘अजाविभ्याम्-' (५.१.८) इति निर्देशान्न वी । ‘अजाद्यतष्टाप्' (४.१.४) । ‘अजश्छागे हरे विष्णौ रघुजे वेधसि स्मरे' इति हैमः ॥