आपीनम्

सुधाव्याख्या

आप्यायते स्म । ‘ओ प्यायी वृद्धौ’ (भ्वा० आ० से०) । ‘गत्यर्था-' (३.४.७२) इति क्तः । ‘प्यायः पी' (६.१.२८) निष्ठायाम् । ‘आङ्पूर्वस्यान्धूधसोः’ (वा० ६.१.२८) इति वा, पीभावः । ‘ओदितश्च' (८.२.४५) इति निष्ठानत्वम् ॥